2016-तमे 55,000 शिशवः अप्रत्यक्षाः।
नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति। 2016-तमे 54,723 शिशवः अपहृताः। किन्तु 40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु 22.7 ℅एव दण्डिताः 2015-तमे 41,893, 2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य आवेदनम् इतःपर्यन्तम् न प्रकाशितम्।