तैलमूल्यनिर्णयप्रक्रिया नैव पुनःर्विचिन्तयते -पेट्रोलियम् मन्त्री।
अहमदाबाद्> प्रतिदिनम् पेट्रोल् डीसलादीनाम् मूल्यनिर्णयप्रक्रियां पुनर्निर्णेतुं केन्द्रसर्वकारः नैव सन्नद्धः इति केन्द्रपेट्रोलियम् मन्त्री धर्मेन्द्रप्रधानः। तैलमूल्यवर्धने सर्वकारस्य उत्कण्ठा वर्तते। शाश्वतपरिहाराय श्रमं करोति इत्यपि सः अवोचत्। राज्यसर्वकाराः करन्यूनीकरणाय सन्नद्धाः भवेयुः। वर्धितपेट्रोल्मूल्यस्य भागत्वेन लभ्यमानानि आनुकूल्यानि च राज्यानि सन्त्यजेयुः। केरलसर्वकारः पूर्वम् करः मास्तु इति निश्चयमकरोत्। पूर्वतनस्य यू पी ए सर्वकारस्य अतिस्वामिमनोभावः एव अधुनातनसमस्यानां कारणम्- सः व्यक्तीकृतवान्। अन्ताराष्ट्रविपण्यां क्रूडतैलस्य मूल्यवर्धनं, रूप्यकस्य मूल्यशोषणं, केचन करसम्बन्धिसमस्याः च मूल्यवर्धनाय मूलभूतं कारणमिति तेनोक्तम्।