यू ए ई राष्ट्रे मासत्रयात्मकं सामाजिकम् अपराधक्षमादानम्।
दुबाय् > यथानुसृतम् अधिवासपत्रं विना ये यू ए ई राष्ट्रमधिवसन्ति तेभ्यः शासनदण्डनं विना स्वदेशं प्रतिगन्तुं सन्दर्भः विधीयते तद्राष्ट्रेण। ओगस्ट् मासस्य प्रथमदिनाङ्कादारभ्य मासत्रयपर्यन्तम् इदं क्षमादानं प्राबल्ये वर्तिष्यते।
गतैः कतिपयसप्ताहैः 'विसा'पत्रसम्बन्धिषु विषयेषु यू ए ई राष्ट्रेण अनुवर्तमानानां परिष्काराणाम् अनुस्यूतता भवतीदं क्षमादानम्।