आगमिष्यति जलदौर्लभ्यः - नीतिआयोगः।
नवदिल्ली> राष्ट्रं इतिहासस्य अतिजलदौर्लभ्येन सह गच्छति इति नीति आयोगस्य आवेदनम्। राष्ट्रस्य ६० कोटि जनाः जलदोर्लभ्यन दुरितमनुभवन्ति। २ लक्षं जनाः सुरक्षितजलस्य अनुपलब्ध्या मृताः इति च नीति अायोगस्य समग्रजल सुप्रयोगसूचिकायां वदति। २०३० तमे संवत्सरे जलस्य आवश्यकता द्विगुणीभविष्यति इति आवेदने व्यक्तीकरोति। अन्येषां जीवजन्तुजालानां दुरितं अावेदने न परामृष्टम्।
आराष्ट्रं शुद्धजलस्रोतांसि प्रतिशतं सप्तति अङ्कानि मलिनानि अभवन्। शुद्धजलस्य मानकपट्टिकासु १२२ राष्ट्राणां नामलेखन-प्रकरणेषु भारतस्य स्थानं १२० इति भवति। २०३० संवत्सरे समागते ४० कोटि जनाः पानजलाभावेन दुरितबाधिताः भविष्यति इत्यपि अावेदनं वदति।