प्राथमिककक्ष्यायाः संस्कृतछात्राणां गणना नास्ति। समराङ्कणं प्रविश्यति-KSTF
कोच्ची> प्रथमकक्ष्यातः अारभ्य संस्कृताध्ययनाय अवसरः इदंप्रथमतया
केरळेषु एव भवति। किन्तु कति छात्राः संस्कृताध्यनं कुर्वन्ति इति
सर्वकारस्य पार्श्वे गणना नास्ति। पुस्तकानि प्रश्नपत्राणि च सर्वकारेण
प्रतिसंवत्सरं मुद्रितानि सन्ति। तथापि छात्राणां संख्या सम्पूर्ण नाम
सर्वकारीय-अन्तर्जालपुटे इतःपर्यन्तं न निवेशितम्। संस्कृतभाषां प्रति
राज्यसर्वकारस्य विप्रतिपत्तिः अनया स्पष्टा भवति इति केरल संस्कृताघ्यापक
फेडरेषन् (KSTF) नेतारः वदन्ति।
संवत्सरपर्यन्तम् आवेदनं दत्वा प्रतीक्षया तिष्ठन्तः वयम्। इदनीं
समरात् भिन्नः मार्गः नास्ति अतः सप्तमे प्रवृत्तिदिने सायाह्नधर्णा
निवेदनसमर्पणं च आयोजयिष्ये इति राज्याध्यक्षेण पि एन् मधुसूदनेन उक्तम्।
अध्यायापकाः निवृत्ताध्यापकाः संस्कृतप्रेमिणः सास्कृतिकनायकाः च भागं
स्वीकरिष्यन्ति इति कार्यदर्शिना सि पि सनलचन्द्रेण च उक्तम्। केरले
विद्यमानेषु सर्वेषु उपशैक्षिककार्यालयाङ्कणेषु एव प्रचलति धर्णासमरम्।