संवत्सरपर्यन्तं तैलेन्धनमूल्यं न वर्धते- इन्धनमूल्यं न्यूनीकर्तुं केन्द्रसरेवकारः प्रयतते।
नवदिल्ली> आगामि लोकसभानिर्वाचनात् पूर्वं तैलेन्धनमूल्यवर्धनं बन्धितुमुद्दिश्य केन्द्रसर्वकारः प्रयत्नं समारब्धम् अस्ति। विगते गुरुवासरे एतदनुबन्धतया उपवेशनं केन्द्र पेट्रोलियं मन्त्रिणः धर्मेन्द्रप्रधानस्य गृहे समभवत्। ओ एन् जि सि सस्थायाः साह्येन एव मूल्यवर्धननियन्त्रणम् इति राष्ट्रियमाध्यमेषु आवेदितम्।
एकम् आर्थिकसंवत्सरं यावत् मूल्यवर्धनं विना तैलं विक्रेतुम् ओ एन् जि सि संस्था अादिष्टा भविष्यति।