रसना संस्कृतमासपत्रिका दशमं वयः प्राप्ता।
कोच्ची> केरलदेशतः डा. के श्यामलामहाभागायाः सम्पादकत्वेन प्रकाश्यमाना रसना नामिका संस्कृतमासपत्रिका दशमेवयसि सम्प्रविष्टा। केरलस्य अद्वितीया संस्कृतमासपत्रिकेयं संस्कृतभाषायाः प्रचाराय अद्वितीयं स्थानम् आवहति। कथा कविता प्रश्नोत्तरम् निबन्धः शोधात्मकरचना बालकविता सांस्कृतिकविषये आवेदनम् वैज्ञानिकविषयाः इतरविषयाः च पत्रिकायाः पुटेषु विस्तृतानि सन्ति। पत्रिकायाः पठितारः विदेशराष्ट्रेषु अपि सन्ति। डा.के श्यामलायाः अश्रान्तपरिश्रमस्य पृष्टतः तस्याः पतिदेवस्य के एम् जनार्दनस्य अभिप्रेरणा च वर्तते। पत्रिकायाः प्रबन्धसम्पादकः भवति एषः। सोടपि अस्मिता पब्लिकेषन् नाम पुस्तकप्रकाशकसंस्थया संस्कृतमातुः सेवायां निरतो वर्तते। www.rasanamagazine.com इति भवति पत्रिकायाः अन्तर्जालपुटसङ्केतः