विद्यार्थिनः न सन्ति- स्वाश्रययन्त्रवैज्ञानिक-कलाशालायाः पिधानं क्रियते।
तिरुवनन्तपुरम्> छात्राणां न्यूनसंख्यात्वात् स्वाश्रययन्त्र वैज्ञानिक कलाशालाः पिधानं कर्तुं अनुज्ञां निवेद्य कलाशालायाः प्रबन्धकाः साङ्केतिक-वैज्ञानिक विश्वविश्वविद्यालयस्य पुरतः अनुज्ञां प्रार्थितवन्तः। तिसृभिः कलाशालाभिः पोलिटेक्निक् रूपेण परिवर्तयितुं न्यवेदनमपि प्रदत्तम्।स्वाश्रयमण्डलेषु 120 कलाशालाः सन्ति। सर्वकारेण नियन्त्रिता द्वात्रिंशत् च । एतेषु अष्टाविंशति कलाशालासु एव छात्राः संपूर्णतया प्रवेशिताः। अन्यासु प्रतिशतं पञ्चविंशति (२५%) छात्राः एव आगच्छन्ति। शेषस्थानानि शून्यायानि वर्तन्ते|