तैलेन्धनानां मूल्यवर्धनम् - अधिककरः केरलं त्यजति।
तिरुवनन्तपुरम् > प्रतिदिनं तैलमूल्यं वर्धते। जनानां जीवनं दुस्सहमभवत्। नित्योपयोगवस्तूनां मूल्यं भयानकरूपेण वर्धितम्। एतस्य परिहारार्थं केरलसर्वकारेण नूतनं निर्णयं स्वीकृतम्। वर्धितः अधिककरः त्यक्तुमेव मन्त्रिसभानिर्णयः समभवत्। जूण्मासस्य प्रथमदिनाङ्कादेव निर्णयः प्रबलः भविष्यति।