किलुवेय्य अग्निपर्वतस्फोटनेन महान् लावा प्रवाहः
होणलूलु > हवायि द्वीपस्थ किलुवेय्य अग्निपर्वत स्फोटनेन महान् द्रावकाग्निप्रवाहः ('लावा') अजायत। विस्फोटनेन सह भूभ्रंशः अपि अभवत्। किलुवेय्यपर्वतस्य पूर्वदक्षिणभागे जातस्य भूकम्पस्य शक्तिः भूकम्पमापिन्यां ६.९ इति मापिता अस्ति।