उत्तरप्रदेशे राजस्थाने च कणिकासङ्घातवातप्रवाहेन १०८ मरणानि।
नवदिल्ली > उत्तरभारते गतदिने संवृत्तेन अतिशक्तेन कणिकायुक्तवातप्रवाहेन तदनन्तरं सञ्जातेन मेघजर्जनेन वर्षेण च अष्टोत्तरशतं जनाः मृत्युमुपगताः। द्विशताधिकाः आहताः। उत्तरप्रदेशे राजस्थाने च मरणानि सम्भूतानि।नवदिल्ल्यामपि शतकिलोमीटर् परिमितया शीघ्रतया झंझावातः वाति स्म।
विविधेषु राज्येषु बहूनि गृहाणि भवनानि च विशीर्णानि। वृक्षाः विद्युत्स्तम्भाश्च पतिताः।