सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं प्रकाशितम्।
नवदिल्ली> ८३.०१ ℅ इति विजयसूचकेन सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं प्रकाशितम् । cbseresults.nic.in, cbse.nic.in, results.nic.in, cbse.examresults.net, results.gov.in. इति अन्तर्जालपुटेषु परीक्षाफलं प्रकाशितमस्ति। २०१७ संवत्सरापेक्षया १% वर्घनं अस्ति। ११ लक्षं विद्यार्थिनः परीक्षा लिखितवन्तः। गासियाबाद् देशीया मेघना श्रीवास्तव एव प्रथमस्थानं प्राप्तवती। ५०० अंकात् ४९९ अंकानि प्राप्य श्रीवास्तवा प्रथमपदं प्राप्यवती।