जम्मुकाश्मीरस्य वृद्ध्यर्थं 25,000 कोटि; नरेन्द्रमोदी
जम्मु> जम्मूकाश्मीरस्य अभिवृद्धिप्रवर्तनाय पञ्चच विंशाति सहस्रं ( 25,000) कोटि रुप्पकाणि दातव्यानि इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। ले नगरतः श्रीनगरं प्रति अष्टशताधिक षट्सहस्रं (6800) कोटि रुण्यकाणि व्ययीकृत्य निर्मीयमाणस्य सोजिला गुहामार्गस्य कृते शिलान्यासं कुर्वन् भाषमाणः आसीत् सः। अनेन सह अन्येषां निर्माणयोजनानां कृतेऽपि आरम्भं कृतवान् च । नूतन्यः परियोजनाः जनानाम् अधिकतया उपकारी भविष्यति इति सः उक्तवान्। 14 किलोमीट्टर् दीर्घमितः गुहामार्गः सदाकालं यात्रायै अनुयोग्यः भवति। इदानीं ले नगरतः श्रीनगरं प्रति सर्धात्रिहोरा: आवश्यकाः। किन्तु गुहामार्गद्वारा १५ निमेषैरेवालम्।