नेपालं विहाय भारतस्य पूर्णता नास्ति - भरतस्य प्रधानमन्त्री
जनकपुरम्> नेपालं विहाय भारतस्य विश्वासः इतिहासः च सम्पूर्णं मा भविष्यति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दिनद्वयस्य नेपालसन्दर्शनस्य भागतया अयोध्यां जनकपुरं च बन्धितुं बस् यानस्य सेवां ध्वजवीजनं कृत्वा भाषमाणः आसीत् सः। हिन्दुमतविश्वासानुसारं रामस्य जन्मदेशः भवति अयोध्या नेपालस्य जनकपुरं सीतायाः च । एतौ परोक्षतया उक्त्वा आसीत् मोदिनः भाषणम् ।
'रामायण सर्क्यूट्' इति नाम्ना अविष्कृता आध्यात्मिक विनोदयात्रा-योजनायाः भागतया भवति अयोध्या जनकपुरम् बस् सेवा। शताब्दानां बन्धः एव अयोध्याजनकपुरयोः मध्ये अस्ति एषः बन्धः भग्नं कर्तुं न शक्यते। 225 किलोमीट्टर् दूरमितं बस्यान सेवा मोदी तथा नेपालस्य प्रधानमन्त्री के पि शर्म ओली च मिलित्वा ध्वजवीजनं कृतवन्तौ। प्रातिवेशिक राष्ट्रनयेषु प्रथमगणना नेपालस्य एव इति सः अवदत् ॥