राष्ट्रस्य सांस्कृतिकपरम्पर्ये अभिमानिनः भवेम - भारतस्य उपराष्ट्रपतिः
कासरगोड् > अध्ययनमस्माकं धर्मः, तथा वयं भारतीयाः इति चिन्ता अस्मासु सदा भवितव्या इत्याह्वयन् केन्द्रविश्वविद्यालयस्य एकीकृतं निवेशनस्थानम् उपराष्ट्रपतिः वेङ्कय्य नायिडुः राष्ट्राय समार्पयत्।
जाति-धर्म-लिङ्ग-प्रादेशिक विवेचनेभ्यः अतीतो भवेत् शिक्षाक्रमः इति उपराष्ट्रपतिना उक्तम्। पुरा विश्वगुरुरासीत् भारतम्। नालन्दा तक्षशिला च अस्य प्रमाणे आस्ताम्। वैदेशिकाक्रमणैः ब्रिट्टीष् शासनेन च एषः पारम्पर्यः विनष्टः - उपराष्ट्रपतिना उक्तम्।
कासर्गोड् प्रविश्यायां विविधेषु चतुर्षु स्थानेषु विप्रकीर्णाः अध्ययनविभागाः इतःपरं 'पेरिय' प्रदेशे निर्मिते एकमात्रे भवनसमुच्चये प्रवर्तिष्यते। भवनानां नामान्यपि भारतस्य सांस्कृतिकपैतृकम् उद्घोषयन्ति - गङ्गोत्री, ब्रह्मपुत्रा, सिन्धू, कावेरी, कृष्णा, गोदावरी, नर्मदा, सबर्मती इति अष्ट नदीनां नामानि।