अल्जीरिया राष्ट्रे सैनिकविमानापघातः १०० जीवनाशः
अल्जियेर्स्> अलजीरियराष्ट्रस्य राजधान्याम् अळ्जियेर्स् नगरे सैनिकविमानापघातेन शताधिकाः मृताः इति आवेदितम्। बुधवासरे प्रभाते बफरिक् सैनिक विमाननिलयस्य समीपे इल्यूषिन् II-76 इति विमानम् अपतत् । १२० आसन्तक्षमता युक्तम् आसीत् विमानम्। दक्षिण-पश्चिम अल्जीरियस्थे बच्चार् नगरं प्रति गम्यमानम् आसीत् विमानम्। विमाननिलयात् उड्डयित्वा तस्मिन् क्षणे एव अधः पतितम्। अपघातस्य कारणं न ज्ञातम्। रक्षाप्रवर्तनानि अनुवर्तन्ते। राजधानीतः ३० किलोमीट्टर् दूरे एव अपघातस्यस्थानम् । मेडिट्टरेनियन् सागरः अपि विमाननिलयस्य नातिदूरे वर्तते।