सि बि एस् इ प्रश्नपत्रस्य गुप्तस्रवणम् - हिमाचलप्रदेशतः त्रयः ग्रहीताः
नवदिल्ली> सि बि एस् इ द्वादशकक्ष्यायाः आर्थशास्त्र परीक्षायाः प्रश्नपत्रस्य गुप्तस्रवणानुबन्धतया त्रयः गहीताः । दिल्ली विरलपातकान्वेषण विभागेन एते ग्रहीताः। ग्रहीतेषु एकः अध्यापकः द्वौ विद्यालयोद्योगिनौ च सन्ति इति ए एन् ऐ वार्ता संस्थया आवेदितम्।
कर्कश-प्रश्नकरणाय एते अपराधिनः राजधानीं नीताः। प्रश्नपत्रस्य हस्तलेखन प्रतिलिप्यः एव गुप्तेन स्रविताः इति प्राथमिकान्वेषणे दृष्टाः आसन्। अन्वेषणस्य विशदांशाः दिनाभ्यन्तरेण आवेदयिष्यते इति दिल्याः आरक्षकेण उक्तम्। विभागेन उक्तम्।