पलास्तिकस्य अन्तकः अवतरितः। परिस्थितिवादिनः सन्तुष्टाः।
लण्टन् > पलास्तिकस्य अन्त्यं कर्तुं शक्तः 'एन् सैं' नाम विशेषवस्तुः अमेरिका ब्रिट्टन् राष्ट्रयोः वैज्ञानिकैः संवर्धितः। ब्रिट्टणस्य पोर्ट्स् मौत् विश्वविद्यालयस्य तथा अमेरिक्क राष्ट्रस्य ऊर्ज विभागस्य नाषणल् रिन्यूवबिल् एनर्जी लबोरट्टरी संस्थायाः वैज्ञनिकाः च मिलित्वा एव नूतनं 'एन् सैं' संवर्धितम्। पलास्तिक कूपीनिर्माणाय उपयुज्यमाना पोलि एत्लीन् टेरिफ़्तलेट् इति वस्तुं व्ययीकर्तुमुपायः भवति नूतनानुसन्धानम् इति समाश्वासाय भवति।