कृणमृगहत्याविषयः - सल्मान् खान् प्रतिभूदानेन मुक्तः।
जोध् पुरम् > कृष्णमृगहत्याविषये पञ्चसंवत्सरात्मककारागारवासेन दण्डितः प्रसिद्धः 'बोलिवुड्' चलनचित्रनटः सल्मान्खानः प्रातिभाव्यं प्राप्तः। शास्त्रीयप्रमाणस्य अभावः अस्तीति सन्मान् खानस्य वादं परिगणय्य एव जोध् पुरं सेषन्स् नीतिपीठस्य अयमादेशः। अपि च सल्मान् खानः सद्गुणसम्पन्नः भवतीति नीतिपीठेन निरीक्षितम्। तथा च येन न्यायाधीशेन सल्मान्खानः पञ्चवर्षीयकारागारं प्राप्तः तस्य स्थानान्तरमभवत्। सल्मानः मुक्तश्च।