दिल्यां रोहिङ्यानाम् अभयार्थिसत्रे अग्निबाधा।
नवदिल्ली > म्यान्मर् राष्ट्रतः आगतानाम् अभयार्थिनां सत्रे अग्निबाधा अजयत। दिल्लीस्थे कलिन्दकुञ्च देशस्थे सत्रे एव अग्निबाधा अभवत्। अद्य प्रभातात् पूर्वं सर्धात्रिवादने (३:३०) अग्निबाधा अभवत्। अतिकठिनपरिश्रमेण दशकलोन षट् वादने अग्निः नियन्त्रण विधेया जाता। एकादश अग्निशमनसेनावृन्दानि मिलित्वा अत्यधिकश्रमेण एव अग्निः विधेयः अभवत्I आपघाते षट्चत्वारिंशत् (४६ ) लघु गृहाणि भस्मीभूतानि। २२८ अभयार्थिनाम् आवासकेन्द्राणि विनष्टानि। किन्तु अपमृत्युः न अभवत्। दिल्ली आरक्षकैः अन्वेषणम् आरब्धम्।