अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता; आरक्षकाणां सुरक्षापि विधीता।
-रम्या पि यु
बदायूम्>उत्तरप्रदेशस्थे बदायूमे अम्बेदकरप्रतिमा अयोमयकवचेन बन्धिता। व्यापकतया अम्बेदकरप्रतिमा: नाशोन्मुखीकृता: इति घटनानाम् अनुवर्तनमिदम् प्रवर्तनम्। प्रतिमाबन्धनस्य पृष्ठत: को वा स्यादिति ज्ञानं नास्ति- आरक्षका: अवदन्। प्रतिमाया: सुरक्षाविधानस्य श्रमस्य भाग: स्यादेदत् प्रवर्तनमिति आरक्षका: निरूपयन्ति। सुरक्षाभागतया त्रयः आभ्यन्तररक्षकाः प्रतिमायाः समीपं नियुक्ताः ।