प्रतिमाविध्वंस: गर्हणीयः प्रधानमन्त्री।
नव दिल्ली > राष्ट्रे कतिपयस्थानेषु सामाजिकपरिष्कर्तृृणां नेतॄणां च प्रतिमाविध्वंसनम् अपलपन् प्रधानमन्त्री नरेन्द्रमोदी! एतादृशानां विध्वंसकप्रवर्तनानां विरुध्य तीक्ष्णः क्रियाविधिः आवश्यक इति प्रधानमन्त्री अब्रवीत्! एतादृशानां घटनानाम् उत्तरदायिनः जिल्लाधिकारिणः आरक्षकाधिकारिणश्च भवेयुरिति तेन प्रोक्तम्।
गतदिनेषु त्रिपुरराज्ये लेनिनस्य , तमिल्नाटु मध्ये पेरियार् वर्यस्य , वंगदेशे श्यामप्रसाद् मुखर्जी वर्यस्य, उत्तरप्रदेशे अम्बद्कर् महोदयस्य च प्रतिमाः विध्वसिताः आसन्!