एन् डि ए सख्यं त्यक्तवता टि डि पि दलेन अविश्वासवादोपक्षेपः समर्पितः।
नवदिल्ली > देशीयजनाधिपत्यसख्यं [एन् डि ए] त्यजतीति प्रख्यापितवत् तेलुगु देशं पार्टीदलं [टि डि पी] केन्द्रसर्वकारं विरुध्य अविश्वासवादोपक्षेपाय निवेदनं समार्पयत्। आन्ध्रप्रदेशराज्याय सविशेषस्थानमावश्यकमिति आवेदने निरस्ते तेलुगुदेशमन्त्रिणः केन्द्रमन्त्रिसभायाः गतसप्ताहे निराकृताः आसन्। ततः गतदिने आन्ध्रराजधान्याम् अमरावत्यां सख्यत्यागं प्रख्याप्य अविश्वासप्रख्यापनमपि कृतम्। किन्तु अयमुपक्षेपात् केन्द्रसर्वकारस्य भीषा न वर्तते, निश्चितसंख्याबलत्वात्।