श्रीदेव्याः अन्त्येष्टिकर्म अद्य - मृतदेहः मुम्बय्यां प्रापितः।
मुम्बई > गतदिने दुबाय् मध्ये दिवंगतायाः अभिनेत्रिप्रतिभायाः श्रीदेव्याः अद्य अन्त्यसंस्कारः विधीयते। मुम्बय्यां 'पवन हान्स्' समीपस्थे श्मशाने अपराह्ने सार्धत्रिवादने अन्येष्टिक्रियाः समर्पयिष्यन्ते।
श्रीदेव्याः मरणसम्बन्धिनी दुरूहता ह्यः एव समाप्ता। मरणकारणं न हृदयाघातः किन्तु जले निमज्य इति मरणोत्तरशोधनायां निर्णीतमासीत्। अपि च रक्ते मदिरासान्निध्यं च दृष्टम्। अतः मरणविषयः दुबाय् आरक्षकैः सर्वकारस्य 'पब्लिक् प्रोसिक्यूषन्' संस्थायै समर्पितः। तेषां विशदान्वीक्षणस्य निर्णयस्य चाधारे दुरूहता अपगता। मद्योन्मादेन स्नानागारे विद्यमाने स्नानद्रोणीं पतित्वा तस्मिन् निमज्य एव मरणमभवदिति स्थिरीकृतः! तत्परमेव मृतदेहः बन्धुजनेभ्यः दत्तः!