आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
नवदिल्ली> शिशूनां कृते प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते।
शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम् समग्रविवरणानि भविष्यति। राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं भविष्ययोजनायाः आयोजनं च शक्यते।