शतदिनाभ्यन्तरे कोच्ची याचकमुक्तनगरं भविष्यति।
कोच्ची > आरबसमुद्रस्य राणीति कीर्तिमाप्तं कोच्चीनगरं सम्पूर्णयाचकनिरॊधितनगरं कर्तुम् आॊयोजना आविष्क्रियते। केरल लीगल् सर्वीसस् अतोरिटी नामकस्य नीतिन्यायसाहाय्यसंघटनस्य सेवनमुपयुज्य शतदिनानात्मकेन यज्ञेनैव लक्ष्यो$यं प्राप्स्यते!
राज्यान्तरेभ्यः प्राप्ताः याचकस्त्रियः बालिकाः च स्वदेशं प्रापयितुं यत्नः करिष्यते। वीथिषु अटन्तान् अन्यान् बालकान् नगरे एव वर्तमानेषु अभयकेन्द्रेषु वाससुविधां कृत्वा अध्ययनादिकं सर्वं सज्जीकरिष्यते। नगरे याचकानामाधिक्यं जनानां भीतिश्च नगरसभाधिकारिभिः एतादृशनिर्णयाय कारणमभवत्।