पि एन् बि धनापहरणं - त्रयः निगृहीताः।
मुम्बई > पञ्चाब् नाषणल् वित्तकोशं वञ्चयित्वा वज्रव्यापारिणा नीरव् मोदिना एकादशसहस्राधिकं कोटिरूप्यकाणि अपहृतानीति विषये वित्तकोशस्य पूर्वाधिकारिणम् अभिव्याप्य त्रयः जनाः निगृहीताः। वित्तकोशस्य भूतपूर्वः उपप्रबन्धकः गोकुल नाथषेट्टी, एकजालकस्य नियन्ता मनोज् खाराट्, नीरव् मोदिनः कार्यकर्ता हेमन्त भट्टश्च निगृहीताः वर्तन्ते। नीरव मोदिने प्रमाणानि विना 'बयेर्स् क्रडिट्' नामकस्य ऋणानुकूलपत्रदानस्य मुख्यसूत्रधारो भवति गोकुलनाथःइति सि बि ऐ संस्थया निगदितम्।