विस्फोटकेन निभृतस्य रोगीयानस्य स्फोटनेन ९५ जनाः मृताः
काबूलः > अफ्गानिस्थानस्य राजधानित्वेन विराजमाने काकबूल देशे रोगीयानस्य प्रस्फोटनेन पञ्चनवति जनाः (९५ ) मृताः अष्टपञ्चाशतधिक एकशतं जनाः क्षताः च। शनिवासरे पथि सम्मर्दमनुभूयमाने समये एव विस्फोटः अभवत्। स्फोटनस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। बहवः सर्वकार कार्यालयाः दूतकार्यालयाः च वर्तमानाः सादरात् चत्वरे एव विस्फोटः अभवत् । आरक्षकनिरीक्षणद्वारं प्राप्य यानं झटित्येव विस्फोटनेन भग्नंमभवत्। पञ्चनवति (९५) जनाः विस्फोटनेन मृताः। बहवः क्षताः च इति आवेदितं वार्तासंस्थया।