सैन्यप्रमुखेण सैन्यबलानामाधुनिकीकरणं सबलं प्रतिपादितम्
पुरुषोत्तम शर्मा
नव दिल्ली> सेनाध्यक्षेण जनरलबिपिनरावतेनोक्तं यत् अरुणाञ्चलप्रदेशे अवैधप्रवेशं विधाय चीनस्य श्रमिकाणां रेलपथनिर्माणसम्बद्धा घटना समीसाधिता। जनरल रावतेन नवदिल्ल्याम् एकस्मिन् कार्यक्रमे वार्ताहरै: सह संवादसमये प्रोक्तं यत् घटनाया: समाधानमभवत्।सिक्किमे अपि भारत-चीनसीम्नि स्थितिविषय् सेनाध्यक्षेण निगदितं यत् चीनक्षेत्रे सुरक्षाबलानां संख्यायां न्यूनता सञ्जाता । इत: पूर्वं नवदिल्ल्यां सेना सम्बन्धिते प्रौद्योगिकी सम्मेलने जनरलरावत: सैन्यबलानाम् आधुनिकीकरणं सबलं प्रतिपादितवान् ।