अन्येषां निधिः भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
नव दिल्ली > अन्येषां सम्पद् भारतः न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानांराष्ट्रान्तरलोकसभा सामाजिकानां मेलने भाषमाणः आसीत् सः । भारतस्य संबन्धः लाभनष्टानाम् अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत् प्रधानमन्त्रिणः परामर्शः। सृजनात्मकभावः एव भारतेन प्रदर्श्यते। आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥