दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानि तत्समय-प्रसारणं कुर्वन्ति।
नवदिल्ली> रक्षाकर्तृभ्यः विद्यालयस्य प्रवर्तनानि यथाकालं दृष्टुम् दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानं तत्समय-प्रसारणं दृष्टुं रक्षाकर्तारः प्रभवेयुः। दिल्लीमुख्यमन्त्रिणा अरविन्द्केजरिवाल् महोदयेन ख्यापितम्। सर्वेषु सर्वकारीय विद्यालयेषु मासत्रयाभ्यन्तरेण छायाग्राही स्थापयिष्यते इत्यपि तेन उक्तम्। सर्वेषां रक्षा कर्तॄणाम् स्वस्य अपत्यस्य कक्ष्याप्रकोष्टः समर्थदूरवाणि द्वारा दृष्टुं शक्यते। विद्यार्थिनां सुरक्षायाः भागतया एव अयं प्रक्रमः। गुड्गावस्य वैयक्तिक विद्यालये सप्तवयस्कस्य निधनस्य कारणतया एव इयं सुराक्षा प्रक्रमः। विद्यालय-सुराक्षानुबन्धतया आयोजितः विशेषावलोकनो पवेशनानान्तरमेव आसीत् मुख्यमन्त्रिणः इदं प्रख्यापनम्।