सरहस्यं जाधवस्य जीवनवृत्तम्। पाक् दृष्ट्या गुप्तचर: भारतीयदृष्ट्या वणिक्।
-पुरुषोत्तमशर्मा
नवदिल्ली >महाराष्ट्रस्य साङ्गल्यां गतशताब्दीये सप्ततितमे वर्षे अप्रैलमासस्य षोडशे दिनाङ्के लब्धजन्म: भारतीयनौसेनाया: प्राक्तन कमाण्डर् इति पदभाजनीभूत: कुलभूषणजाधव: पाकिस्तानेन षोडशोत्तरद्विसहस्रतमे वर्षे मार्चमासस्य तृतीये दिनाङ्के बलूचिस्तानात् निगडितः आसीत्। पाकिस्तानेनाक्षिप्तं यदसौ भारतीयगुप्तचरः वर्तते, यो हि (रिसर्च एंड एनालिसीस् विंग ) (रॉ) विभागाय कार्यं करोति स्म ।
निगडनस्य 20 दिनानन्तरं पाकिस्थानेन जाधवस्य स्वीकृते: तथाकथितं वीडियो इति दृश्याङ्कनमपि प्रसारितमासीत् , तत: परं सार्धत्रिमासानन्तरं अप्रैलमासस्य दशमे दिने फील्ड् जनरल् कोर्ट् मार्शल् इति न्यायालयेन तस्मै मृत्युदण्ड: श्रावितः।