अन्तर्जालीय क्रयविक्रये महती वञ्चना। २१७०० अभियाचनाः अस्मिन् वर्षे।
नवदिल्ली> अन्तर्जालीय क्रयविक्रये महती वञ्चना संभवति। अस्मिन् संवत्सरे २२७०० अभियाचनाः अस्मिन् वर्षे पञ्जीकृताः सन्ति इति इलट्रोणिक्स् आन्ट् इन्फर्मेषन् डेक्नोलजि मन्त्री रविशङ्करः राज्यसभायाम् न्यवेदयत्। क्रेडिट् कार्ट् , डेबिट्कार्ट्, इन्टर्नेट् बैंकिङ्, अन्तर्जाल क्रयविक्रयः इत्येतान् अनुबन्ध्य वञ्चना दोषारोपेण भवति अभियाचना । आवेदित अभियाचनानुसारं १५५ कोटि रुप्यकाणां वञ्चना अभवत् इति च मन्त्री अवदत्| वित्तकोश सेवनमण्डले सैबर् सुरक्षां भीषां च अधिकृत्य वित्तकोशेभ्यः विविध सर्वकारीय विभागेभ्यः च ज्ञानम् आवश्यकम् इति मन्त्रिणा सभायाम् उक्तम्।