गोखाद्यकुम्भकोणम् - लालुप्रसादयादवः अपराधी।
राञ्ची > २२ संवत्सरेभ्यः पूर्वं लालुप्रसादयादवस्य शासनकाले बीहारराज्ये संवृत्ते गोखाद्य-महाभ्रष्टाचारानुबन्धे अपरे विषये पि तदानींतनमुख्यमन्त्री लालुप्रसादयादवः अपराधीति सि बि ऐ सविशेषन्यायालयेन निर्णीतम्। दण्डनविधिः जनवरी तृतीयदिने घोषयिष्यते।
१९९१-९४ परिमिते काले गवां कृते खाद्यानि, औषधानि , उपकरणानि इत्यादीनि क्रीतानीति व्याजदेयकानि समुद्पाद्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि आहृतानि इत्यस्ति अपराधारः विषयः। लालुं विना १५ अधिकारिप्रमुखाः अपि अपराधिन इति न्यायालयेन निश्चितमस्ति।