'एकात्मतायात्रा'यै प्रौढोज्वलप्रारम्भः।
आदिशाङ्करस्य जन्मभूमौ कलट्यां भाषामणः शिवराजसिंहचौहानः |
मध्यप्रदेशसर्वकारेण स्थाप्यमाणायाः प्रतिमायाः निर्माणार्थं मुख्यमन्त्री शिवराजसिंहचौहानः सकुटुम्बं एरणाकुलं जनपदे पिरवं प्रदेशस्थं आदिशङ्कराचार्यस्य मातृभवनं – मेल्प्पाष़त्तूरिल्लं – प्राप्य जगद्गुरोः अवतारेण पादस्पर्शनेन च पवित्रीकृतं मृदंशं सङ्कलितवान्। चिन्मया अन्तर्देशीयकेन्द्रमिति विख्याते आदिशङ्करनिलये यत्र आचार्यस्य जन्म अभवत् तस्मिन् प्रकोष्ठे वर्तमानस्य अनिर्वापितदीपस्य पुरतः पूजां प्रार्थनां च कृत्वा एव चौहान् वर्यः मृत्कुम्भं स्वीकृतवान्।
प्रतिमास्थापनात् पूर्वं मध्यप्रदेशसर्वकारः चिन्मयामिषन् संस्था च मिलित्वा एव आदिशङ्करसन्देशवाहिनी इति नाम्नि एकात्मयात्रा आयोजिता। मुख्यमन्त्रिणः धर्मपत्नी साधनासिंहचौहान् पुत्रः कार्तिकेयसिंहचौहान् इत्यादयः कार्यक्रमे सन्निहिताः आसन्।