उन्मादकवस्तूनि ग्रहीतुं साह्यायै लक्षशः रुप्यकाणि सम्मानं दीयते- केन्द्र सर्वकारः।
नवदिल्ली> विवरणानां दानेन उन्मादक वस्तूनां ग्रहणे सर्वकारस्य साहायं कुर्वतां सामान्य जनानां सर्वकारीयोद्योगस्थानां च निष्कृतिदानाय उद्युक्तः अस्ति केन्द्र आभ्यन्तरमन्त्रालयः। एतत् अनुबन्धतया नूतना मार्गरेखा मन्त्रालयेन प्रकाशिता विद्यते। साह्येन गृहीतानाम् उन्मादक वस्तूनां मानमनु सृत्य एव भविष्यति निष्कृतेः मूल्य निर्णयम् । २४० रुप्यकाणि आरभ्य २.४० लक्षपर्यन्तं प्रतिफलराशिरूपेण लब्धुमर्हति इति IANS वार्ताहर संस्थया आवेदितम्। विविधानाम् उन्मादकवस्तूनां नामानि प्रतिकिलोमितस्य प्रतिफलराशिः च प्रकाशिता अस्ति। सर्वकारीयोद्योगिनां तेषां सेवनकाले विंशतिलक्ष-रुप्यकपर्यन्तम् अनेनमार्गेण सम्माननराशिवत् लब्धुमहर्ता अस्ति। उन्मादकवस्तु विनिमयस्य निष्कासनं समूलं कर्तव्यमिति दृढनिश्चयेन भवति एतावत् क्रियाविधि:।