इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारका: (होर्मोण्) सन्तीति जाग्रतानिर्देश:।।
-रम्या पि यू
तिरुवनन्तपुरम्> आगामिनि आम्रफलकाले इतरराज्येभ्य: आगच्छत्सु आम्रफलेषु अतिदुर्मेदकारकाणां सान्निद्ध्यम् अधिकं स्यादिति राज्यभक्ष्यसुरक्षाविभागस्य जाग्रतानिर्देश:। सस्यविकासक्रमीकरणजात्यां ( पी जी आर् )( प्लान्ट् ग्रोत् रेगुलेटर् ) अन्तर्भूतानि अतिदुर्मेदकारकाणि संसिञ्च्य पक्वानि कृतानि आम्रफलानि एव विपणिम् प्राप्स्यन्ति इति तमिलुनाडु, आन्ध्रा राज्ययोः भक्ष्यसुरक्षाविभागयो: जाग्रतानिर्देश:। उभयो: एतयोः राज्ययोरेव केरलम् प्रति प्रधानतया आम्रफलानि आगच्छन्ति। एतयोः राज्ययोः आहत्याम्रफलविपणनकेन्द्रेषु बहुत्र अस्यां रीत्याम् आम्रफलानि पक्वानि क्रियमाणानि सन्तीति अवलोकनबद्धमेव। उभयत्रापि अधुना विपणिम् प्राप्तेषु आम्रफलेषु गुरुतरारोग्यविघ्नसमस्याकारका: 'कात्स्यं कार्बैड्,' 'एत्तराल्' आदिनां रासवस्तूनां अंशा: सन्तीति प्रत्यभिज्ञातम्। तत्तद्राज्येषु आम्रफलस्य आहत्यविपणनकेन्द्रेषु निरीक्षणम् प्रचलति इत्यपि राज्यभक्ष्यसुरक्षाविभाग: ज्ञापित:। सस्यानां सम्पूर्णविकासप्रापणाय फलवर्गाणाम् उत्पादनशक्तिवर्धनाय च फलकृषिक्षेत्रेषु कृत्रिमतया निर्मितम् पी जी आर् अतिदुर्मेदकारकमेव एतदर्थमुपयुज्यते। एतादृशानां अतिदुर्मेदकारकाणां लायनीषु अपक्वम् आम्रफलम् मज्जयित्वा उत लायनीम् तेषु प्रोक्षयित्वा वा पक्वम् क्रियते। ओक्सिन्, गिबरलिन्, एथिलीन्, सैटोकैनीन् आदीनि पी जी आर् अतिदुर्मेदकारकाणि एव एतदर्थम् उपयुज्यन्ते।