लक्षद्वीपं परित्यज्य 'ओखि' चक्रवातः गुर्जर तीरं प्रति।
कोच्ची > लक्षद्वीपे दुरन्ताः वितीर्य ओखि चक्रवातः गुर्जरं प्रति गच्छति। तत्रत्यानां कृते घटनायाः पूर्व सूचना घोषिता। शतकोटि स्प्यकाणां नाशं कृत्वा एव चक्रवातस्य गमनम्। नाशः अधिकतया मिनिकोय् द्वीपे अभवत्। गृहाणि हर्माणि च भगनानि। वैद्युतबन्धनाय अधिकः समयः अवश्यः इति उत्तरदायिनः वदन्ति। कल्पेनि कवरत्ति द्वीपयोः अपि नाशः अत्यधिकः एवI तथापि रक्षाप्रवर्तनानि त्वरितवेगेन न लभते इति द्वीप निवासिनः वदन्ति। समुद्रक्षोभेन षण्णौकाः द्वीपस्य तीरं प्राप्ताः। ततः अष्ट चत्वारिंशत् जनाः रक्षिताः च ।