नवजातमृत्युप्रकरणम्
दिल्ली > दील्लीस्थे मैक्स चिकित्सालये नवजातशिशो: मृत्युप्रकरणे दिल्लीसर्वकारेण कठोरकार्यान्वयनं कृतम् । दिल्ल्या: स्वास्थ्यमन्त्री सत्येन्द्रजैन: अभाषत् यत् नवजातशिशो: मृत्युप्रकरणे दिल्ल्या: शालीमारबागस्थितस्य मैक्स चिकित्सालयस्य अनुमतिपत्रं निरस्तीकृतम् । दिल्ली प्रशासनस्य त्रिसदस्यीयान्वीक्षसमित्या चिकित्सालय: दोषित्वेन प्रतिपादित: ।
प्राथमिक्या ज्ञायते यत् प्रसवकालात् परिजनेभ्य: वपूंसि समर्पणकालं यावत् चिकित्सालयप्रशासनेन अनियमितता विहितासीत् । समित्या मंगलवासरे प्राथमिकप्रतिवेदनं स्वास्थ्यमन्त्रिणे सत्येन्द्रजैनाय समर्पितमासीत् ।
जीवितशिशु: यो हि मैक्स चिकित्सालयेन मृत: घोषित: आसीत् तस्य मृत्यु: शुक्रवासरे अभवत् ।
समित्या निजान्वीक्षणे ज्ञातं यत् चिकित्यालयप्रशासनेन प्रसवकालिकनिश्चितनियमानां पालनं नैव कृतमासीत् । शिशो जीवनसम्बद्धपरीक्षणमपि नैव कृतमासीत् , लिखितदिशानिर्देशं विनैव शिशु: परिजनेभ्य: अर्पित: आसीत् । एतदतिरिच्य मृत: जीवित: शिशु: सहैव स्थापितौ स्त: ।