उपभोक्तृ संरक्षणपत्रस्य अङ्गीकारः
अनृतविज्ञप्तिः दण्डनीयदोषः।
नव दिल्ली> उपभोक्तारः संरक्षिताः। केन्द्रसर्वकारेण उपभोक्तॄणां अधिकारः सरक्षितुं उन्नत सेवनव्यवस्थां संस्थापयितुं च उद्दिश्य एव उपभोक्तृ-संरक्षणपत्रस्य अङ्गीकारः। अस्मिन् विधानसभामेलने पत्रस्य अवतारणं भविष्यति। इदानीं विद्यमाननियमानां परिष्करणेन एव नूतन नियमपरिष्करणपत्रस्य अवतारणम्। फलरहितोत्पन्नानि जनानां याचिकानुसारं प्रतिग्रहणं कर्तुं पत्रे व्यवसितः । अनृत विज्ञप्ति -प्रकाशितेभ्यः क्रियाविधयः भविष्यन्ति।