द्विशतं परिष्काराः अपि आविष्क्रियन्ते । लक्ष्यं तु उद्योगसौहृदराष्ट्रम् इति स्थानप्राप्तिः ।
मुम्बै> उद्योगसौहृदराष्ट्राणां श्रेण्यां प्रथमपञ्चाशन्नामसु अन्तर्भवितुं महत्परिष्काराय केन्द्रसर्वकारः सज्जः भवति । औद्योगिकस्तरेषु आगामि संवत्सरेषु केन्द्रसर्वकारः द्विशताधिकपरिष्कारान् आविष्कर्तुं चिकीर्षति इति Industrial policy & promotion इति विभागस्य सचिवं रमेष् अभिषेकम् उद्धृत्य P.T.I. वार्तामाध्यमद्वारा आवेदितम्।
द्वाविंशत्युत्तरशतं परिष्काराः एव गतवर्षे प्रयोगपथमानीताः । ते विश्ववित्तकोशस्य आवेदने प्रतिफलिताः इति च रमेष् अभिषेक् वदति । अस्मिन् वर्षे नवति परिष्कारा: औद्योगिकस्तरम् आनीताः ।