उपराष्ट्रपतिः अद्य केरले।
कोच्ची > भारतस्य उपराष्ट्रपतिः वेङ्कय्यनायिडु महोदयः द्विदिवसीयसन्दर्शनार्थम् अद्य केरलं प्राप्नोति। उपराष्ट्रपतिस्थानारोहणानन्तरम् अस्य प्रथमं केरलसन्दर्शनं भवत्येतत्। त्रिषु कार्यक्रमेषु उपराष्ट्रपतिः भागभागित्वं करिष्यति। सायं चतुर्वादने कोच्चीनगरे 'इन्डियन् फिषरीस् आन्ड् अक्वा कल्चर फोरम्' सः उद्घाटनं करिष्यति।