इस्रायेल्स्य प्रधानमन्त्री भारतं आगमिष्यति।
जेरुसलेम्- इस्रायेल् राष्ट्रस्य प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहू वर्येण भारतं सन्दृक्ष्यते। जनुवरिमासस्य १४ तमे दिनाङ्के एव तस्य सन्दर्शनम्। चतुर्दिवसीय-सन्दर्शनमेव सज्जीकृतम् वर्तते। भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनानन्तरं षण्मासमतीतम् ।
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ संवत्सरानन्दरमेव अधुनातनः प्रधानमन्त्री भारतं आगमिष्यति। द्विनवत्यधिकनव शतोत्तरैकसहस्र (१९९२ ) तमे संवत्सरे नयतन्त्रबन्धस्थापनानन्तरं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू इत्यस्ति विशेषता।