हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च
- बलदेवानन्द-सागरः
हरियाणा अर्थात् परमात्मनः निवास-स्थानम् -
सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
“हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना
प्रतिष्ठितं जातम् |
प्रतिष्ठितं जातम् |
केचन विद्वान्सो निगदन्ति यत् अस्याः भूमेः नाम आसीत् “हरित + अरण्यम्” अर्थात् “शाद्वल-सम्भरितं काननम्” - एतस्मिन्नर्थे ‘हरितारण्यम्’ आसीत् यद्धि कालक्रमेण “हरियाणा” इति रूढं जातम् | एवम्मन्यमानेषु प्रमुखेषु विद्वत्सु श्रीमुरलीचन्द्र-शर्मा, श्रीएच्.ए.फडके, श्रीसुखदेवसिंह-छिबः श्रीमुन्नीलाल-प्रभृतयः अन्यतमाः सन्ति |
आधुनिक-हरियाणा-राज्यस्य प्राचीन-सन्दर्भाः -
आधुनिक-सन्दर्भानुसारेण भारतीय-गणतन्त्रे पृथक्-राज्य-रूपेण १९६६-तमे वर्षे नवम्बर-मासे प्रथम-दिनाङ्के एतत् प्रतिष्ठापितं जातम्, किन्तु विशिष्टमेतद् ऐतिहासिकं सांस्कृतिकञ्च क्षेत्रमिति हरियाणा-राज्यस्य अस्तित्वं प्राचीनकालादेव अभिज्ञातम् आसीत् ।
राज्यमिदम् आदिकालादेव भारतस्य संस्कृतेः सभ्यतायाश्च धुरत्वेन अवर्तत। स्मृति-कारस्य महर्षेः मनोः अनुसारेण अस्य प्रदेशस्य अस्तित्वं देवताभिः विरचितम् अत एव अयं 'ब्रह्मवर्त'-प्रदेशः इति अभिहितम् ।
हरियाणा-प्रदेशस्य विषये अनेके सन्दर्भाः वैदिक-साहित्ये समुल्लिखिताः सन्ति | प्रदेशेsस्मिन् विहितेन उत्खननेन ज्ञायते यत् सिन्धु-उपत्यकायाः सभ्यतायाः, मोहनजोदड़ो- इत्यवशेषाणां च संस्कृतेः विकासः अत्रैव अजायत ।
शास्त्र-वेत्तारः, पुराण-रचयितारः विचारकाश्च सुदीर्घ-कालं यावद् अस्य ब्रह्मर्षि-प्रदेशस्य रमणीये अङ्के स्थित्वा अनेकान् धर्म-ग्रन्थान् विरचय्य ज्ञानं प्रसारितवन्तः। ते सर्वदैव भगवत्याः मातुः सरस्वत्याः पावनस्य ब्रह्मवर्तस्य च गुणान् विविधासु निज-रचनासु वर्णितवन्तः।
अस्य राज्यस्य ब्रह्मवर्त-ब्रह्मर्षि-इति नाम-द्वयम् अतिरिच्य 'ब्रह्मणः उत्तरवेदिका' - इति नाम्नापि प्रदेशोsयं ग्रन्थेषु जेगीयते। राज्यमिदम् आदि-सृष्टेः जन्म-स्थानमित्यपि आमन्यते । एतदपि विश्वस्यते यत् मानव-जातेः समुत्पत्तिः यस्मात् वैवस्वत-मनोः जाता, सः अस्यैव प्रदेशस्य राजा आसीत् ।
“अवन्ति-सुन्दरी-कथा”- इति ग्रन्थे अयं मनु-महाराजः स्थाण्वीश्वर-निवासी [थानेश्वरवासी] इति वर्णितम् । पुरातत्ववेत्तारो निगदन्ति यद् आद्यैतिहासिक-कालीनायाः, प्राग्हड़प्पा-हड़प्पा-परवर्ति-हड़प्पा-प्रभृतीनाम् चानेकासां संस्कृतीनां बहुविधानि प्रमाणानि, हरियाणा-राज्यस्य वणावली-सीसवाल-कुणाल-मिर्ज़ापुर-दौलतपुर-भगवान्पुरादि-स्थानानाम् उत्खननैः प्राप्तानि ।
हरियाणा - ‘भारत’ - इति नामकरणस्य पृष्ठभूमिः अस्ति -
भरतवंशी सुदासः अस्मादेव प्रदेशाद् स्वीयं विजयाभियानम् प्रारभत, आर्याणां शक्तिञ्च सङ्घटितवान् । एते एव भरतवंशिनः आर्याः रंहसा सुदूरे पूर्वस्मिन् दक्षिणे च दिग्विभागयोः स्वीयां शक्तिं विवर्धयन्तः अग्रेसृताः । अनन्तरं तेषामेव वीर-भरतवंशिनां नाम्ना अशेष-राष्ट्रस्य अभिधानं ‘भारत’मिति प्रसिद्धिमगात्।
महाभारत-कालात् शताब्देभ्यः पूर्वम् आर्यवंशिनः कुरवः अत्रैव कृषि-युगमारभन्त । पौराणिक-कथानुसारेण ते आदिरूपायाः सरितः मातुः सरस्वत्याः ४८-कोष-मितम् उर्वर-प्रदेशं प्रप्रथमं कृषि-योग्यं व्यदधुः । अत एव सा ४८-कोष-परिमिता कृषि-योग्या भूमिः कुरूणां नाम्ना सुप्रतिष्ठिता सती अद्यत्वेsपि “कुरुक्षेत्र”-मिति भारतीय-संस्कृतेः पवित्रप्रदेशत्वेन जगति सम्मान्यते।
सुदीर्घ-कालं यावत् सरस्वत्याः गङ्गायाः च मध्यगतः सुविस्तृतः भू-भागः 'कुरु-प्रदेश'- नाम्ना अभिज्ञायते स्म । महाभारतस्य विश्व-प्रसिद्धं युद्धं कुरुक्षेत्रे एव अयुध्यत । अस्यैव युद्धस्य तुमुलेषु शंख-नादेषु अद्भुतः सनातनः अलौकिकश्च स्वरः उदपद्यत-
“धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ! ||”
श्रीमद्भगवद्गीतायाः अमुना प्रथमेन श्लोकेन साकमेव योगेश्वरस्य श्रीकृष्णस्य विश्व-जनीनस्य पारमार्थिक-स्वरस्य अनुकीर्तनम् अनुगुञ्जनञ्च अद्यापि श्रद्धालुभिः निज-कर्णाभ्यां पेपीयते | युगपुरुषस्य भगवतः श्रीकृष्णस्य मुख-कमलात् प्रकटिता श्रीमद्भग- वद्गीता या हि भारतीय-संस्कृतेः बीज-मंत्ररूपास्ति, सर्व-कालार्थं अमरायते ।
हरियाणा-प्रदेशस्य गौरवयुगम् -
वर्धनवंशस्य सर्वोत्तमः शासकः हर्षवर्धनः आसीत् येन विशालं साम्राज्यं स्थापितम् । हरियाणा-प्रदेशस्य तद् गौरवयुगमासीत् । चीन-देशीयः भिक्षुः ह्वेनसांगः हर्षस्य राजधान्याः (थानेश्वर) स्थाण्वीश्वरस्य वैभवं समृद्धिञ्च समीचीनतया अवर्णयत् । संस्कृत-साहित्यस्य महान् गद्यलेखकः बाणभट्टः नैजे 'हर्षचरितम्'- नाम्नि ग्रन्थे तत्कालीनस्य हरियाणा-प्रदेशस्य जन-जीवनं सांस्कृतिक-परम्पराश्च व्यापकतया अवर्णयत् । हर्षकालेsपि जनपदानां स्वरूपं यथावदेव सन्धारितमासीत् । सम्राट्, न कदापि अत्र आन्तरिक-व्यवस्थायां हस्तक्षेपमकरोत् ।
सम्राजो हर्षवर्धनस्य मृत्योः पश्चाद् अत्रत्यं जनजीवनं व्यस्तीभूतम् । अनारतं बाह्याक्रमणानि जायन्ते स्म । परन्तु अत्रत्याः जनाः निज-शक्त्या आन्तरिकीं सामाजिक-व्यवस्थां सन्धारितवन्तः। प्राचीनस्य हरियाणा-प्रदेशस्य सबलायाः गण-परम्परायाः फलस्वरूपेण एव अत्रत्याः जनाः सदा दृढतया जनवादिनः स्थिताः, तथा च कालान्तरेsपि ते प्रत्येकमपि तया साम्राज्यवादिन्या शक्त्या संघर्षम् अकुर्वन् याः काश्चन अपि शक्तयः तेषां जनवादि-व्यवस्थायां हस्तक्षेपं विहितवत्यः। 1857-मिते खीस्ताब्दे सञ्जातो जन-विद्रोहोsपि एतस्याः आस्थायाः प्रतीकरूपः ।
यौधेय-काले अयं 'बहुधान्यक'- प्रदेशस्य नाम्ना अभिज्ञायते स्म। मूर्तिकला-हस्तकला-ललित-कलानां कृते यौधेयाः कृत्स्नेsपि प्रदेशे प्रसिद्धाः आसन्। रोहतकस्य मृदङ्ग-वादकाः पटह-ताडकाश्च उज्जयिनीं यावत् गत्वा प्रसिद्धिं प्राप्तवन्तः। मल्लयुद्धे युद्ध-कौशले च ते अद्वितीयाः आसन् । ते एकतः दुर्धर्षाः योद्धारः आसन्, अपरतश्च अदम्य-शक्तिमन्तः कृषकाः अपि । गौरवस्य विषयोsयं यत् सहस्राधिकानि वर्षाणि यावत् अमुना गणराज्येन भारतस्य इतिहासे अपूर्वा काचित् प्रसिद्धिः प्राप्ता, तथा च, ते नैजं प्रदेशं गणतन्त्रात्मक-राजनैतिक-व्यवस्थायाः अन्तर्गतं चरम-विकास-पर्यन्तं प्रापितवन्तः । तोमरशासकानां शासनकाले हरियाणा-प्रदेशेन कला-संस्कृति-व्यापारेषु महती उन्नतिः अधिगता यद्विषये वयं दशम-शताब्द्यां सुख्यातेन संस्कृत-विदुषा सोमदेवेन लिखिते 'यशस्तिलक-चम्पू'- इति ग्रन्थे सूचनां लभामहे।
हरियाणा-प्रदेशस्य इतिहासो हि अनेक-विधानां राजनैतिक-सामाजिक-घटनानां विस्तृतेतिवृत्तं सत् विराजते यस्य विषये अत्र दिङ्गमात्रमेव निर्दिष्टमस्ति |
भारतस्य हरित-क्रान्तौ समृद्धस्य हरियाणा-प्रदेशस्य योगदानम् -
ऊन-विंश-शताब्दस्य षष्ठे दशके [१९६०] देशे प्रवर्तितायां हरित-क्रान्तौ हरियाणा-प्रदेशस्य महद् योगदानमासीत् येन आधुनिकं भारतं खाद्यान्न-सम्पन्नं जातम् । भारतस्य समृद्धतम-राज्येषु अन्यतमस्य हरियाणा-राज्यस्य, प्रतिव्यक्ति आयमानाधारेण इदं देशस्य द्वितीयं समृद्धतमं राज्यं वर्तते । एतदतिरिच्य, भारते सर्वाधिकाः ग्रामीणाः कोटि-पतयो धनिकाः अपि अस्मिन्नेव राज्ये सन्ति । हरियाणा-राज्यम् आर्थिकरूपेण दक्षिण-एशिया-द्वीपस्य विकसिततमं क्षेत्रं वर्तते, अपि चात्र, कृषि-विनिर्माणोद्योगः १९७०-वर्षतः अनारतं वृद्धिमवाप्नोत् । यात्रिणां कारयानानां, द्विचक्रिका-वाहनानां, कृषित्र-[ट्रैक्टर]-यानानाञ्च निर्माणे भारते हरियाणा-राज्यं सर्वोपरि वर्तते। भारते प्रतिव्यक्ति-निवेशाधारेण २०००-तमे वर्षे हरियाणा सर्वोपरि स्थानं भजते स्म ।
हरियाणा-राज्यस्य कला-परम्पराः बहुवर्णीया संस्कृतिश्च -
हरियाणा-राज्यस्य सांस्कृतिक-जीवनेsपि कृषेः अर्थव्यवस्थायाः विभिन्नानाम् अवसराणां समन्वितिः प्रतिबिम्बायते तथा चास्मिन् विराजते प्राचीन-भारतस्य परम्पराणां लोककथानाञ्च भाण्डारः। हरियाणा-प्रदेशस्य एका विशिष्टा भाषित-भाषास्ति, एतस्याञ्च स्थानिकानाम् आभाणकानां सहजं प्रचलनं प्रवर्तते । स्थानीयं लोकगीतं [विशेषरूपेण...रागिणी] नृत्यञ्च स्वीयाकर्षक-शैली-कारणात् एतद्-राज्यस्य सांस्कृतिक-जीवनं सविशेषं प्रदर्शयतः । एते ओजोभरिते स्थानीय-संस्कृतेः विनोद-प्रियतया च संपृक्ते स्तः। वसन्तर्तौ आनन्दोल्लास-सम्भृते होलिका-पर्वणि जनाः परस्परं ‘गुलाल’-इति रक्तचूर्णं स्नेहेन रागेण प्रेम्णा च प्रक्षिप्य आर्द्र-वर्णैः क्रीडन्ति | अस्मिन् न कस्यचन वयसो वा सामाजिक-योग्यतायाः वा भेदो व्यवह्रियते । हरियाणा-राज्ये जन्माष्टमी - इति भगवतः श्रीकृष्णस्य जन्मदिनस्य विशिष्टं धार्मिकञ्च महत्त्वं वर्तते |
सूर्यग्रहणावसरे पवित्र-स्नानार्थं अशेष-देशात् लक्ष-लक्षशः श्रद्धालवः कुरुक्षेत्रं समायान्ति । अग्रोहा-(हिसारं निकषा)-पिहोवा-सहितानि अनेकानि प्राचीनानि तीर्थस्थलानि राज्येsस्मिन् विराजन्ते । अग्रोहा- इति अग्रसेन-रूपेण आमान्यते, यो हि अग्रवाल-समुदायस्य, अस्य च उपजातीनां प्रमुखः पूर्वजः वा प्रवर्तकः विश्वस्यते । अत एव अग्रोहा-तीर्थं सम्पूर्णस्य अग्रवाल-समुदायस्य जन्मभूमिः अस्ति । भारतस्य व्यापारि-वर्गेषु प्रमुखोsयं समुदायः साम्प्रतम् अशेष-देशे प्रसृतोsस्ति । अग्रसेनस्य जन्मभूमेः सम्मानस्वरूपोsयं समुदायः कतिपय-वर्षेभ्यः प्रतिष्ठापितवान् ।
वैदिक-सन्दर्भाणाम् अनुसारेण कला-ज्ञानयोः देव्याः, सरस्वत्याः [सरितः] तट-स्थितं पिहोवा-तीर्थस्थलं पूर्वजानां श्राद्ध-हेतोः पिंडप्रदानाय महत्त्वाधायि-पवित्र-स्थलत्वेन आमान्यते । विभिन्न-देवतानां सत्पुरुषाणाञ्च स्मृतौ आयोज्यमानानि मेलकानि हरियाणा-संस्कृतेः महत्त्वपूर्णाङ्गत्वेन वर्तन्ते। अनेकेषु स्थानेषु पशु-मेलकान्यपि आयोज्यन्ते । क्षेत्रमेतत् उत्त्तम-जातेः दुग्ध-दायिनां पशूनां, विशेषेण च, महिषाणां कृषि-योग्यानां वर्ण-संकर-प्रजातीनां च पशूनां कृतेsपि सुख्यातमस्ति ।
‘हवेलियां’ - इति हरियाणा-प्रदेशस्य पारम्परिकाः पारिवारिकावासाः वास्तुशिल्पस्य सुन्दरता-हेतोः, विशेषेण च तेषां द्वाराणां संरचना-कारणात् अभिज्ञायन्ते । एतेषां ‘हवेलियां’ - इति पारिवारिकावासानां द्वाराणाम् अभिकल्पनं [designing] हस्तकौशलञ्च न केवलं विविधता-युक्तम्, अपि तु, एतेषु उत्कीर्णा विभिन्न-विषयाणां शृंखलापि विस्मयकारिणी वर्तते | एते पारम्परिकाः पारिवारिकावासाः हरियाणा-राज्यस्य वीथीनां मध्ययुगीन-स्वरूपं सौन्दर्यञ्च विस्तारयन्ति । एतेषु भवनेषु बहवः आलिन्दाः [चबूतरे] भवन्ति, ये नाम आवासीयानां सुरक्षायाः धार्मिकाणां न्यायालयीयानाञ्च कार्याणां कृते समुपयुज्यन्ते । एतानि भवनानि निज-स्वामिनां सामाजिक-स्थितिमपि संकेतयन्ति । एतेषु आलिन्देषु उत्कीर्णाः कलाकृतयः अस्य क्षेत्रस्य समृद्धं सांस्कृतिकं वंशानुगतं च रिक्थं स्मारयन्ति ।
संक्षेपेण वक्तुं शक्यते यत् एताभिः अनेक-प्रकारिकाभिः विशेषताभिः समन्वितस्य हरियाणा-राज्यस्य विषये एतादृक्-लघु-निबन्धः एव नैवास्ति अलम् | विस्तृत-ग्रन्थस्य माध्यमेनैव वयं हरियाणा-राज्यस्य कलानां संस्कृतेः इतिहासस्य च विषये समग्रां सूचनामधिगन्तुं शक्नुमः |