कान्सर् रोगस्य कृते उपयुज्यमानाः औषधानि निष्फलानि इति अनुसन्धानफलम्।
लन्टन् > यूरोप्यन् मेडिसिन् रिसर्च् एजन्सी द्वारा आयोजितस्य निरीक्षणस्य फलः कान्सर् रोगस्य औषधानां निष्फलता व्यक्ती क्रियते । २००९- २०१३ संवत्सराभ्यन्तरेषु अंगीकृतेषु औषधेषु ४७% शतांशः औषधानि निष्भलानि एव।
लन्टनस्य किङ्स् कलाशाला, लन्टन्स्कूल् आफ् इक्कणोमिक्स् च मिलित्वा प्रकाशिते पठनफले एव एतत् वस्तुताः लिखिताः । विपण्यां लभ्यमानेषु औषधेषु २३/११ एव फलप्रदाः।