'फिफा अण्डर् - १७' पादकन्दुकस्पर्धा – भारतस्य निराशा।
नवदिल्ली > विश्वकौमारस्य कन्दुककेल्यां भारतस्य पराभवेन प्रारम्भः। भारतस्य प्रथमस्पर्धायां वीर्ययुक्तं अमेरिक्का दलं प्रति प्रत्युत्तररहितानां त्रयाणां लक्ष्यकन्दुकानां पराजयः अभवत्। क्रीडायाः पूर्वार्धे दण्डार्हताडनेन (Penalty kick) अमेरिक्का तेषां प्र कमलक्ष्यकन्दुकं नायकेन जोष् सार्जन्टेन प्राप्तम्। ततः उत्तरार्धे लक्ष्यकन्दुकद्वयमपि प्राप्तम्।