प्रोफ.तुरवूर् विश्वंभरः दिवंगतः।
कोच्ची > प्रशस्तः वाग्मी तथा च संस्कृतपण्डितः प्रोफ. तुरवूर् विश्वंभरः (७४) दिवंगतः। अर्बुदरोगबाधया कोच्चीस्थे निजीयातुरालये चिकित्सार्थं प्रवेशितः आसीत्।
भारतीयतत्वशास्त्रेषु वेदेतिहासपुराणादिषु अगाधपाण्डित्यमार्जितः सः एतेषां ग्रन्थानां ललितैः व्याख्यानैः केरलीयानां मध्ये श्रद्धेयः अभवत्। कला-साहित्य-संस्कृति-तत्त्वचिन्तादिषु अनेकानि लेखनानि अनेन प्रकाशितानि सन्ति। मलयालं, संस्कृतं, आङ्गलेयभाषासु पाण्डित्यमवाप्तवान् सः ग्रीक् लाटिन् भाषयोरपि विज्ञः आसीत्।