हिमाचलप्रदेशविधानसभानिर्वाचनानि
हिमाचलप्रदेश-विधानसभानिर्वाचनेभ्य: प्रत्याशिनाम् निर्णयाय भारतीयजनतापार्टीति दलस्य केन्द्रीय-निर्वाचनसमितेरुपवेशनं नवदिल्ल्यां दलस्य मुख्यालये समनुष्ठितम् । प्रधानमन्त्री नरेन्द्रमोदी दलाध्यक्ष: अमितशाह: केन्द्रीयमन्त्रिद्वयं जगतप्रकाशनड्डा अनन्तकुमारश्च उपवेशने भगग्रहणं कृतवन्त:। अष्टषष्टि: सदस्यान्वितायै हिमाचलप्रदेशविधानसभायै नवम्बरमासस्य नवमे दिनाङ्के एकस्मिन् चरणे मतदानं भविष्यति ।