अज्ञातयानानां घट्टनेन मारिताः १७७८ -यानधावनं संख्याफ्लकं पिधाय।
कोच्ची> केरळेषु भारवाहनानां घट्टनेन अष्टसप्तत्यधिक-सप्तदशजनाः (१७७८) मृताः। ( २००५ - २०१६ संवत्सरस्य गणनेयम् ) घट्टितेषुयानेषु ५७५७ यानानि अज्ञातानि। इदानीमपि राज्येषु पण्यसंवहन -यानानि पञ्चीकरण-संख्यां पिधाय वा रहितेन वा निर्बाधं गच्छन्ति। घट्टितानि यानानि स्थगनं विना गच्छन्ति तर्हि तेषां पञ्चीकरण-संख्यां द्रष्टुं सन्दर्भः नास्ति। निरीक्षण-चित्रग्राह्यामपि एतेषां चित्रं सुव्यक्ततया न लभते। पृष्टतः संख्याफलकं नास्ति इत्यनेनैव अवस्था रूक्षा एवI एतदधिकृत्य संवत्सरात्पूर्वं 'सम्प्रतिवार्ताया' आवेदितः आसीत्। छात्राणां वार्ताप्रसारण-कार्यक्रमे सप्रमाणं वार्ता संप्रेषिता आसीत्। पालक्काट् - कोच्ची राष्ट्रियमार्गे घण्डाभ्यन्तरेण शताधिकानि भारयानानि यान्ति। वाहन-नियमानुसारं दण्डार्हः दोषः भवति। किन्तु एतस्य पालनाय किमपि अत्र न प्रवर्तते।
अज्ञातयानानां घट्टनेन सञ्जातः अपघाताः
वत्सरः अपघाताः मृताः क्षतजाः
2016 201 86 164
2015 433 106 392
2014 529 151 499
2013 263 128 130
2012 207 91 115
2011 303 152 158
2010 339 163 190
2009 308 135 196
2008 326 156 187
2007 1015 238 862
2006 934 195 802
2005 1100 177 737