विदेशेषु भारतीयानां विजस्य कारणम्
लघुतरा शिखावृद्धिः - वि के सिंहः।
मुम्बै> विदेशराष्ट्रेषु कर्मकुर्वन्तं भारतीयानां विजयः तत्र ऋणधनस्य न्यूनतरा शिखावृद्धिः भवति इत्यनेनैव इति भारतविदेशकार्यसहमन्त्री वि के सिंहः अवदत्। मुद्रा ( Micro Units Development and Refinance Agency ) नाम योजनायाः अनुबन्धेन आयोजितायां आर्थिक संरम्भकानां मेलने भाषमाणः आसीत् सः। विदेशस्थाः भारतीयाः उत्तमरीत्या प्रयत्नं कुर्वन्तः सन्ति। एतस्य कारणं ललितमेव। तेषां आशयान् अवकाशान् च फलवद्रूपेण चालयितुं पर्याप्तं आर्थिक साहाय्यं ततः लभते। शिखावृद्धिरपि न्यूना भवति इत्यपि सिंहेन प्रोक्तम्।